पृष्ठम्:प्रस्थानभेदः.djvu/९

पुटमेतत् सुपुष्टितम्
प्रस्थानभेदः ।

पारभेदेऽपि सर्वासां वेदशाखानामेकरूपत्वमेव ब्रह्मकाण्डे । इति चतुर्णां वेदानां प्रयोजनभेदेन भेदः उक्तः ॥

 अथाङ्गानामुच्यते-- तत्र शिक्षाया उदात्तानुदात्तस्वरितह्रस्वदीर्घप्लुतादिविशिष्टस्वरव्यञ्जनात्मकवर्णोच्चारणविशेषज्ञानं प्रयोजनम्, तदभावे मन्त्राणामनर्थकत्वात् । तथा चोक्तम्-- 'मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्' इति । तत्र सर्ववेदसाधारणी शिक्षा 'अथ शिक्षां प्रवक्ष्यामि--' इत्यादिपञ्चखण्डात्मिका पाणिनिना प्रकाशिता; प्रतिवेदशाखं च भिन्नरूपा प्रातिशाख्यसंज्ञिता अन्यैरेव मुनिभिः प्रदर्शिता ॥

 एवं वैदिकपदसाधुत्वज्ञानेनोहादिकं व्याकरणस्य प्रयोजनम् । तच्च 'वृद्धिरादैच्’ इत्याद्यध्यायाष्टकात्मकं महेश्वरप्रसादेन भगवता पाणिनिनैव प्रकाशितम् । तत्र कात्यायनेन मुनिना पाणिनीयसूत्रेषु वार्तिकं विरचितम् । तद्वार्त्तिकस्योपरि च भगवता मुनिना पतञ्जलिना महाभाष्यमारचितम् । तदेतत्त्रिमुनि व्याकरणं वेदाङगं माहेश्वरमित्याख्यायते ।