पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/12

पुटमेतत् सुपुष्टितम्
( ११ )
नीति कथा माला ॥

यः कूपो दृष्टोऽभूत् तमेव कूपमासाद्य भासुरकमाह । “स्वामिन् ! कस्ते प्रतापं सोढुं समर्थः । त्वां दृष्ट्वा दूरतोऽपि चौरसिंहः प्रविष्टः स्वं दुर्गम्, तदागच्छ येन दर्शयामीति" । भासुरक आह, "दर्शय मे दुर्गम्" । तदनु दर्शितस्तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूप मध्ये आत्मप्रतिबिम्बं जलमध्यगतं दृष्टा सिंहनादं मुमोच । ततः प्रतिशब्देन कूपमध्याद् द्विगुणतरो नादः समुत्थितः।

 १३. अथ तेन तं शत्रुं मत्वा आत्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशकोऽपि हृष्टमनाः सर्वमृगान् आनन्द्य तैः सह प्रशस्यमानो यथासुखं तत्र वने निवसति स्म । अत एवोक्तम्--

 यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतोबलम् ।
 पश्य सिंहो मदोन्मत्तः शशकेन विनाशितः ॥

अनागतविधात्रादीनां ।
कथा ( ५ )

 १. कस्मिंश्चित् जलाशये अनागतविधाता प्रत्युत्पन्नमतिः यद्भविष्यश्चेति त्रयो मत्स्याः सन्ति । अथ कदाचित् तं जलाशयं दृष्ट्वा गच्छद्भिर्मत्स्यजीविभिरुक्तं, यदहो ! बहुमत्स्योऽयं ह्रदः, कदाचिदपि नास्माभिरन्वेषितः, तदद्य तावदाहारवृत्तिः