पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/13

पुटमेतत् सुपुष्टितम्
( १२ )
अनागतधित्रादीनाम् ॥

सञ्जाता, सन्ध्यासमयश्च संवृत्तः, ततः प्रभातेऽत्र आगन्तव्यमिति निश्चयः ।

 २. अतस्तेषां तत्कुलिशपातोपमं वचः समाकर्ण्य अनागतविधाता सर्वान् मत्स्यान् आहूय इदमूचे, "अहो ! श्रुतं भवद्भिः यत् मत्स्यजीविभिरभिहितम् ? तन्नूनं प्रभातसमये मत्स्यजीविनोऽत्र समागम्य मत्स्यसंक्षयं करिष्यन्ति, एतन्मम मनसि वर्त्तते । तन्न युक्तं साम्प्रतं क्षणमपि अत्रावस्थातुम् । उक्तञ्च,

विद्यमाना गतिर्येषामन्यत्रापि सुखावहा ।
ते न पश्यन्ति विद्वांसो देहभङ्गं कुलक्षयम्" ॥

 ३. तदाकर्ण्य प्रत्युत्पन्नमतिः प्राह, "अहो ! सत्यमभिहितं भवता, ममापि अभीष्टमेतत्, तदन्यत्र गम्यतामिति । उक्तञ्च,

परदेशभयाद्भीता बहुमाया नपुंसकाः ।
स्वदेशे निधनं यान्ति काकाः कापुरुषा मृगाः" ॥

 ४. अथ तत् समाकर्ण्य प्रोच्चैर्विहस्य यद्भविष्यः प्रोवाच,- “अहो ! न भवद्भ्यां मन्त्रितं सम्यगेतदिति । यतः, किं वाङ्मात्रेणैव तेषां पितृपैतामहिकमेतत्सरः त्यक्तुं युज्यते ? यदि आयुःक्षयोऽस्ति, तदन्यत्र गतानामपिमृत्युर्भविष्यत्येव । उक्तञ्च,

अरक्षितं तिष्ठति दैवरक्षितं
सुरक्षितं दैवहतं विनश्यति ।

तदहं न यास्यामि, भवद्भ्यां च यद्रोचते तत् कर्तव्यम्" ।