पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/14

पुटमेतत् सुपुष्टितम्
( १३ )
नीति कथा माला ॥

 ५. अथ तस्य तं निश्चयं ज्ञात्वा, अनागतविधाताप्रत्युत्पन्नमतिश्च, निष्क्रान्तौ सह परिजनेन । अथ प्रभाते तैर्मत्स्यजीविभिः जालैस्तज्जलाशयमालोड्य यद्भविष्येण सह तत्सरो निर्मत्स्यतां नीतम् । अतएवोक्तम्--

अनागतविधाताच प्रत्युत्पन्नमतिस्तथा ।
द्वावेतौसुखमेधेते, यद्भविष्यो विनश्यति ॥

चण्डरवश्वापदानाम्
कथा ( ६ )

 १. कस्मिंश्चित् वनप्रदेशे चण्डरवो नाम श्रृगालःप्रतिवसतिस्म । स कदाचित् क्षुधाविष्टो जिह्वालौल्यात् नगरान्तरं प्रविष्टः । अथ तं नगरवासिनः सारमेया अवलोक्य, सर्वतः शब्दायमानाः परिधाव्य, तीक्ष्णदंष्ट्राग्रैर्भक्षितुमारब्धाः । सोऽपि तैः भक्ष्यमाणः प्राणभयात् प्रत्यासन्नरजकगृहं प्रविष्टः । तत्र च नीलीरसपरिपूर्णमहाभाण्डं सज्जीकृतमासीत् । तत्र सारमेयैराक्रान्तो भाण्डमध्ये पतितः ।

 २. अथयावत् निष्क्रान्तस्तावत् नीलीवर्णः सञ्जातः । तत्र अपरे सारमेयास्तं शृगालमजानन्तो यथाभीष्टदिशं जग्मुः । चण्डरवोऽपि दूरतरं प्रदेशमासाद्य काननाभिमुखं प्रतस्थे । न च नीलवर्णेन कदाचित् निजरङ्गः त्यज्यते ।

 ३. अथ अपूर्वं तत् सत्वम् अवलोक्य, सर्वे सिंहव्याघ्रद्वी