पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/15

पुटमेतत् सुपुष्टितम्
( १४ )
चण्डरवश्वापदानाम् ॥

पिवृकप्रभृतयः अरण्यनिवासिनः भयेन व्याकुलितचित्ताः समन्तात् पलायनं कुर्वन्ति, कथयन्ति च, “न ज्ञायते अस्य कीदृक् विचेष्टितं पौरुषं च, तत् दूरतरं गच्छामः ।

न यस्य चेष्टितं विद्यात्, न कुलं, न पराक्रमम् ।
न तस्य विश्वसेत् प्राज्ञो, यदीच्छेच्छ्रियमात्मनः” ॥

 ४. चण्डरवोऽपि तान् भयेन व्याकुलितान् विज्ञाय, इदमाह “भोः भोः श्वापदाः ! किं यूयं मां दृष्ट्वा एव सन्त्रस्ताः व्रजथ ? तत् न भेतव्यम् । अहं ब्रह्मणा अद्य स्वयमेव सृष्ट्वा अभिहितः- श्वापदानां मध्ये कश्चित् राजा नास्ति तत् त्वं मया अद्य सर्वेषां श्वापदानाम् प्रभुत्वे अभिषिक्तः ककुद्द्रुमाभिधः । ततः गत्वा क्षितितले तान् सर्वान् परिपालय'–-ततः अहम् अत्र आगतः । तत् मम छत्रच्छायायां सर्वैः एव श्वापदैः वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः ।”

 ५. तत् श्रुत्वा, सिंहव्याघ्रपुरःसराः श्वापदाः “स्वामिन् ! प्रभो ! समादिश” इति वदन्तः तं परिवव्रुः । अथ, तेन सिंहस्य अमात्यपदवी प्रदत्ता । व्याघ्रस्य शय्यापालित्वं, द्वीपिनः ताम्बूलाधिकारः, वृकस्य द्वारपालकत्वम् । ये च आत्मीयाः श्रृगालाः तैः सह आलापमात्रम् अपि न करोति । सर्वे अपि शृगालाः अर्धचन्द्रं दत्त्वा निस्सारिताः ।

 ६. एवं तस्य राज्यक्रियायां वर्तमानस्य, ते सिंहादयः मृगान् व्यापाद्य, तस्य पुरतः प्रक्षिपन्ति । सोऽपि प्रभुधर्म्मेण सर्वेषाम्,