पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/16

पुटमेतत् सुपुष्टितम्
( १५ )
नीति कथा माला ॥

तान् प्रविभज्य प्रयच्छति । एवं गच्छति काले, कदाचित् तेन समागतेन, दूरदेशे शब्दायमानस्य शृगालवृन्दस्य कोलाहलः अश्रावि । तं शब्दं श्रुत्वा पुलकिततनुः, आनन्दाश्रुभिः परिपूर्णनयनः उत्थाय विरोतुम् आरब्धवान् ।

 ७. अथ ते सिंहादयः तं तारस्वरं श्रुत्वा "शृगालोऽयम्" इति मत्वा सलज्जम् अधोमुखाः क्षणम् एकं स्थित्वा मिथः प्रोचुः “भोः ! वञ्चिताः वयम् अनेन क्षुद्रशृगालेन” तत् वध्यताम् । सोऽपि तत् आकर्ण्य पलायितुम् इच्छन् तत्र स्थाने एव सिंहादिभिः खण्डशः कृतः, मृतश्च ।

त्यक्ताश्चाभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृताः
स एव मृत्युमाप्नोति, यथा राजा ककुद्द्रुमः ॥




मित्रशर्म्मणो धूर्त्तानाञ्च ।

कथा ( ७ )

 १. कस्मश्चिंत् अधिष्ठाने मित्रशर्म्मा नाम ब्राह्मणः कृताग्निहोत्रपरिग्रहः प्रतिवसतिस्म । तेन कदाचित् माघमासे, मेघाच्छादिते गगने, मन्दं मन्दं प्रवर्षति मेघे, पशुप्रार्थनाय किञ्चिद् ग्रामान्तरं गत्वा कश्चित् यजमानो याचितः । “भो यजमान ! आगामिन्याम् अमावास्यायाम् अहं यक्ष्यामि यज्ञम् । तद् देहि