पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/17

पुटमेतत् सुपुष्टितम्
( १६ )
मित्र शर्म्मणो धूर्तानाञ्च

मे पशुम्" । अथ तेन तस्य पीवरतनुः पशुः दत्तः । सोपि तम् इतश्च इतश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा स्वपुराभिमुखः प्रतस्थे ।

 २: अथ तस्य गच्छतो मार्गे त्रयो धूर्त्ताः सम्मुखाः बभूवुः । तैश्च तादृशं पीवरतनुं पशुम् अवलोक्य मिथः अभिहितम्, “अहो ! अस्य पशोः भक्षणात् अद्यतनीयो हिमपातः अपनीयते । तत् एनं वंचयित्वा पशुम् आदाय शीतत्राणं कुर्मः ।"

 ३. अथ तेषाम् एको वेशपरिवर्तनं विधाय सम्मुखं भूत्वा तम् आहिताग्निम् ऊचे, “भो भो बालाग्निहोत्रिन् ! किम् एवं जनविरुद्धं हास्यकार्य्यं क्रियते, यत् एष सारमेयः अपवित्रः स्कन्धेन नीयते" । ततश्च तेन कोपाभिभूतेन अभिहितम्, “अहो ! किम् अंधो भवान्, यत्पशुं सारमेयं प्रतिपादयसि ?” सोऽब्रवीत् “ब्रह्मन् ! कोपस्त्वया न कर्त्तव्यः । यथेच्छं गम्यताम्"।

 ४. अथ, यावत् किञ्चित् अध्वनोऽन्तरं गच्छति, तावत् द्वितीयो धूर्त्तः सम्मुखे समुपेत्य तम् उवाच, "भो ब्रह्मन् ! यद्यपि वल्लभोऽयं ते मृतवत्सः तथापि स्कन्धम् आरोपयितुम् अयुक्तम्” । अथ, असौ सकोपम् इदमाह, “भोः ! किम् अंधो भवान्, यत् पशुं मृतवत्सं वदसि” । सोऽब्रवीत्, “भगवन् !मा कोपं कुरु । अज्ञानात् मया अभिहितम् । तत् त्वं यथेच्छम् आचर” ।

 ५. अथ, यावत् स्तोकं वनांतरं गच्छति, तावत् तृतीयो अन्यवेशधारी धूर्त्तः सम्मुखे समुपेत्य तम् उवाच, “भोः । अ