युक्तम् एतत्, यत् त्वं रासभं स्कंधाधिरूढं नयसि; तत् त्यज्यताम् एषः । उक्तञ्च--
‘यः स्पृशेद्रासभं मर्त्यो ज्ञानादज्ञानतोऽपि वा ।
सचैलं स्नानमुद्दिष्टं, तस्य पापप्रशांतये' ॥
तत् त्यज एनम्, यावत् अन्यः कश्चित् न पश्यति" ।
६. अथ, असौ तं पशुं रासभं मन्यमानो भयात् भूमौ प्रक्षिप्य, स्वगृहम् उद्दिश्य, प्रपलायितः । ततस्ते त्रयो मिलित्वा तं पशुम् आदाय यथेच्छया भक्षितुम् आरब्धाः ।
बहुबुद्धिसमायुक्ताः सुविज्ञाना, बलोत्कटान्
शक्ता वञ्चयितुं धूर्त्ताः; ब्राह्मणं छागलादिव ॥
दधिपुच्छखरनखरयोः
कथा ( ८ )
१. कस्मिंश्चित् वने खरनखरो नाम सिंहः प्रतिवसतिस्म । स कदाचित् इतश्च इतश्च परिभ्रमन्, क्षुधया पीडितः नकिञ्चिदपि सत्वम् आससाद । ततश्च अस्तमनसमये महतीं गिरिगुहाम् आसाद्य प्रविष्टः चिन्तयामास, "नूनम् एतस्यां गुहायां रात्रौ केनापि सत्त्वेन आगन्तव्यम् । तत् निस्तब्धो भूत्वा तिष्ठामि ।"
२. एतस्मिन् अंतरे तस्याः स्वामी दधिपुच्छो नाम शृगालः समायातः । स च यावत् पश्यति, तावत् सिंहस्य पदपद्धतिः