पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/19

पुटमेतत् सुपुष्टितम्
( १८ )
दधिपुच्छखरनखरयोः

गुहायां प्रविष्टा, नच निर्गता । ततश्च अचिंतयत्, अहो ? विनष्टोऽस्मि । नूनम् अस्या अंतर्गतेन सिंहेन भाव्यम् । तत् किं करोमि ? कथं ज्ञास्यामि ?"

 ३. एवं विचिन्त्य द्वारस्थः फूत्कर्तुम् आरेभे, “अहो बिल । अहो बिल !” इत्युक्त्वा तूष्णींभूय, भूयः अपि तथा एव प्रत्यभाषत् “भोः किं न स्मरसि, यत् मया त्वया सह समयः कृतोऽस्ति, यत् मया बाह्यात् समागतेन त्वं वक्तव्यः, त्वया च अहं प्रतिवक्तव्यः । तत् यदि मां न आह्वयसि, ततोऽहं द्वितीयं बिलं यास्यामि ।"

 ४. अथ तच्छ्रुत्वा सिंहः चिन्तितवान्, "नूनम् एषा गुहा अस्य समागतस्य सदा समाह्वानं करोति । परम्, अद्य मम भयात् । न किञ्चिद् ब्रूते । अथवा साधु इदमुच्येते,

'भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः ।
प्रवर्तन्ते न, वाणीच, वेपथुश्चाधिको भवेत् ॥'

 तत् अहम् अस्य आह्वानं करोमि, येन, तदनुसारेण प्रविष्टोऽयं भोज्यतां यास्यति ।” एवं सम्प्रधार्य्य, सिंहः तस्य आह्वानम् अकरोत् ।

 ५. अथ, सिंहस्य शब्देन सा गुहा प्रतिरवसम्पूर्णा अन्यान् अपि दूरस्थान् अरण्यजीवान् त्रासयामास । शृगालोऽपि पलायमान इमं श्लोकम् अपठत् ।