"अनागतं यः कुरुते स शोभते |
सिंहसुतयोः शृगालकस्य च
कथा ( ९ )
१. कस्मिंश्चित् वने सिंहदम्पती प्रतिवसतःस्म । अथ सिंही पुत्रद्वयं अजीजनत् । सिंहोऽपि नित्यम् एव मृगान् व्यापाद्य सिंह्यै ददाति । अथ, अन्यस्मिन् अहनि तेन किमपि न आसादितम् । वने भ्रमतोऽपि तस्य रविः अस्तं गतः ।
२. अथ, तेन स्वगृहम् आगच्छता शृगालशिशुः प्राप्तः । स च "बालकोऽयम्" इति अवधार्य्य, यत्नेन दंष्ट्रामध्यगतं कृत्वा, सिंह्याः जीवन्तम् एव समर्पितवान् । ततः सिंह्या अभिहितम्, "भोः कान्त ! त्वया आनीतं किञ्चित् अस्माकं भोजनम् ?" सिंह आह "प्रिये ! मया अद्य एनं शृगालशिशुं परित्यज्य न किञ्चित् सत्वम् आसादितम् । स च "बालोऽयम्" इति मत्वा न व्यापादितः, विशेषात् स्वजातीयश्च । इदानीं त्वम् एनं भक्षयित्वा पथ्यं कुरु, प्रभाते अन्यत् किञ्चित् उपार्जयिष्यामि ।"
३. सा प्राह, “भोः कान्त ! त्वया बालकोऽयं विचिन्त्य