पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/21

पुटमेतत् सुपुष्टितम्
( २०)
सिंहसुतयोः शृगालकस्य च ॥

न हतः । तत् कथम् एनम् अहं स्वोदरार्थे विनाशयामि । उक्तञ्च

‘अकृत्यं नैव कर्तव्यम्, प्राणत्यागेऽपि संस्थिते ।
न च कृत्यं परित्याज्यम्, एष धर्म्मः सनातनः ॥'

 तस्मात् मम अयं तृतीयः पुत्रो भविष्यति ।” इत्येवम् उक्त्वा तमपि स्वस्तनक्षीरेण पराम् पुष्टिम् अनयत् एवं ते त्रयोऽपि शिशवः परस्परं जातिम् अजानन्तः एकाचारविहारा बाल्यसमयं निर्वाहयन्ति ।

 ४. अथ, कदाचित् तत्र वने भ्रमन् अरण्यगजः समायातः । तं दृष्ट्वा तौ सिंहसुतौ द्वौ अपि कुपिताननौ तम् प्रति यावत् प्रचलितौ, तावत्, तेन शृगालसुतेन अभिहितम्, "अहो ! गजोऽयं युष्माकं कुलशत्रुः, तन्न गन्तव्यम् एतस्य अभिमुखम् ।" एवम् उक्त्वा गृहं प्रधावितः । तौ अपि ज्येष्ठबान्धवस्य भङ्गात् निरुत्साहतां गतौ ।

 ५. अथ, तौ द्वौ अपि गृहं प्राप्य पित्रोः अग्रतो विहसन्तौ ज्येष्ठस्य भ्रातुः विचेष्टितम् ऊचतुः, यद् "गजंदृष्ट्वा दूरतोऽपि नष्टः ।" सोऽपि तत् आकर्ण्य कोपाविष्टमना ताम्रलोचनः भृकुटिं बद्ध्वा, तौ भर्त्सयन् परुषतराणि वचनानि उवाच । ततः सिंह्या एकान्ते नीत्वा असौ प्रबोधितः, "वत्स ! मा एवं कदाचित् जल्प । एतौ भवदीयौ लघुभ्रातरौ ।"

 ६. अथ असौ प्रभूतकोपाविष्टः ताम् उवाच, “किम् अहम्