पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/29

पुटमेतत् सुपुष्टितम्
( २८ )
बककर्कटकयोः

 ४. ततः स तत् आकर्ण्य, अन्येषाम् अपि जलचराणां तत् तस्य वचनं निवेदयामास । अथ, ते सर्वे भयेन संत्रस्ताः मत्स्यकच्छपप्रभृतयः तम् अभ्युपेत्य पप्रच्छुः, "माम ! अस्ति कश्चित् उपायः, येन अस्माकं रक्षा भवति ?" बक आह, “अस्ति अस्य जलाशयस्य समीपं, प्रभूतजलं, पद्मिनीभिः मण्डितं सरः, यत् चतुर्विंशत्या अपि वर्षाणाम् अवृष्ट्या न शोषम् एष्यति । तत्, यदि कश्चित् मम पृष्ठम् आरोहति, तत् अहं तत्र नयामि ।"

 ५. अथ, ते तत्र विश्वासम् आपन्नाः “तात, मातुल, भ्रातः” इति ब्रुवाणाः "अहं पूर्वम्, अहं पूर्वम्" इति समन्तात् परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान् पृष्ठे आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य, तस्याम् आक्षिप्य,स्वेच्छं भक्षयित्वा, भूयोऽपि जलाशयं समासाद्य, जलचराणां मिथ्यावार्ताभिः मनांसि रञ्जयन् नित्यम् एव आहारवृत्तिं करोति ।

 ६. अन्यस्मिन् दिने च कुलीरकेण उक्तम् "मया सह ते प्रथमः स्नेहसम्भाषः सञ्जातः । तत्, किं मां परित्यज्य अन्यान् नयसि ? तस्मात् अद्य मे प्राणानां त्राणं कुरु ।” तत् आकर्ण्य सोऽपि दुष्टाशयः चिन्तितवान् "निर्विण्णोऽहं मत्स्यानां मांसस्य अदनेन । तत् अद्य एनं कुलीरकं व्यञ्जनस्य स्थाने करोमि ।" इति विचिन्त्य तं पृष्ठे समारोप्य, तां वध्यशिलाम् उद्दिश्य प्रस्थितः ।

 ७. कुलीरकोऽपि दूरात् एव अस्थिपर्वतं शिलायाः समीपम् अवलोक्य, मत्स्यानाम् अस्थीनि परिज्ञाय तम् अपृच्छत्, “माम !