पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/30

पुटमेतत् सुपुष्टितम्
( २९ )
नीति कथा माला ॥

कियद्दूरे स जलाशयः । मम भारेण अतिश्रान्तः त्वम् । तत् कथय ।" सोऽपि मन्दधीः "जलचरोऽयम्" इति मत्त्वा "स्थले न प्रभवति" इति सस्मितम् इदम् आह, "कुलीरक ! कुत्र अन्यो जलाशयः ? मम प्राणयात्रा इयम्, तस्मात् स्मर्य्यताम् आत्मनः अभीष्टा देवता, त्वाम् अपि अस्यां शिलायां निक्षिप्य भक्षयिष्यामि” इति उक्तवति तस्मिन् कुलीरकेण स्ववदनदंशाभ्यां मृदुग्रीवायां गृहीतः, मृतश्च ।

 ८. अथ स तां बकस्य ग्रीवां समादाय शनैः शनैः तं जलाशयम् आससाद । ततः, सर्वैः एव जलचरैः पृष्टः, “भोः कुलीरक ! किं त्वं निवृत्तः ? स मातुलोऽपि न आयातः । तत् किं चिरयति । वयं सोत्सुकाः तिष्ठामः ।” एवं तैः अभिहिते कुलीरकोऽपि विहस्य उवाच, “मूर्खाः सर्वे जलचराः, तेन मिथ्यावादिना वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भक्षिताः । तत् मया आयुषःशेषतया तस्य विश्वासघातकस्य अभिप्रायं ज्ञात्वा इयं ग्रीवा आनीता । तत्, अलं सम्भ्रमेण । अधुना सर्वेषां जलचराणां क्षेमं भविष्यति ।"

            
भक्षयित्वा बहून् मत्स्यान्, उत्तमाधममध्यमान् ।
अतिलौल्याद् बकः कश्चित् मृतः कर्कटकग्रहात् ॥

मत्कुणस्य यूकायाश्च
कथा [ १३ ]

 १. अस्ति, कस्यचित् महीपतेः, कस्मिंश्चित् स्थाने मनोरमं शयनस्य स्थानम् । तत्र शुक्लयोः पटयोः मध्ये संस्थिता, मंदविसर्पिणी नाम श्वेता यूका प्रतिवसति । सा च, तस्य महीपतेः