पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/31

पुटमेतत् सुपुष्टितम्
( ३० )
मत्कुणस्य यूकायाश्च ॥

रक्तम् आस्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्येद्युश्च, तत्र शयनस्थाने कुतश्चित् भ्राम्यन्, अग्निमुखो नाम मत्कुणः समायातः ।

 २. अथ, तं दृष्ट्वा सा विषण्णवदना प्रोवाच, "भोः अग्निमुख ! अत्र अनुचिते स्थाने त्वं कुतः समायातः ? तत्, यावत् न कश्चित् वेत्ति, तावत् शीघ्रं गम्यताम् ।" स आह, "भगवति ! गृहम् आगतस्य असाधोरपि न एतत् युज्यते वक्तुम् । उक्तञ्च,

‘एह्यागच्छ, समाश्वसासनमिदम्, कस्माच्चिराद् दृश्यसे ?
का वार्ता ? न्वति दुर्बलोऽसि, कुशलम् ? प्रीतोऽस्मि ते दर्शनात् ।
एवं नीचजनेऽपि युज्यति गृहं प्राप्ते सता सर्वदा,
धर्मोयं गृहमेधिनं निगदितः स्मार्तैर्लघुः सर्वदा ॥

 ३. "अपरं, मया अनेकेषां मानुषाणां विविधानि रुधिराणि आस्वादितानि, कटुतिक्तकषायाम्लरसास्वादनानि । तत् यदि त्वं प्रसादं करोषि तर्हि, अस्य नृपतेः शरीरे विविधानां व्यञ्जनानाम् अन्नपानचोष्यलेह्यानाञ्च आहारवशात् यत् मिष्टं रक्तं सञ्जातं, तस्य आस्वादनेन जिह्वायाः सौख्यं सम्पादयामि । तत् मया तव गृहम् आगतेन, बुभुक्षया पीड्यमानेन तव सकाशात् भोजनम् अर्थनीयम् । तत् न त्वया एकाकिन्या अस्य नृपतेः भोजनं कर्तुं युज्यते ।"

 ४. तत् श्रुत्वा मन्दविसर्पिणी प्राह, “भो मत्कुण ! अहं निद्रावशं गतस्य अस्य नृपते रक्तम् आस्वादयामि । तत् त्वं पुनः, अग्निमुखः चपलश्च । तत् यदि मया सह