पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/33

पुटमेतत् सुपुष्टितम्
( ३२ )
काकादीनां क्रथन कस्य च

काकादीनां क्रथनकस्य च

कथा ( १४ )

 १. कस्मिंश्चित् वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवसतिस्म । तस्य च अनुचरा अन्ये द्वीपि-वायसगोमायवः सन्ति । अथ, कदाचित् तैः इतस्ततः भ्रमद्भिः सार्थात् भ्रष्टः क्रथनको नाम उष्ट्रः दृष्टः । अथ, सिंह आह, "अहो ! अपूर्वम् इदं सत्त्वम्, तत् ज्ञायतां किम् एतत् आरण्यकं ग्राम्यं वा ।" तत् श्रुत्वा वायस आह "भोः स्वामिन् ! ग्राम्यः अयम् उष्ट्रनामा जीवविशेषः, तव भोज्यः । तत् व्यापाद्यताम् ।" सिंह आह, "नाहं गृहम् आगतं हन्मि ।" तत्, अभयप्रदानं दत्वा मम सकाशम् आनीयताम्, येन, अस्य आगमनस्य कारणं पृच्छमि ।"

 २. अथ, असौ सर्वैरपि विश्वास्य, अभयप्रदानं दत्वा मदोत्कटस्य सकाशम् आनीतः, प्रणम्य उपविष्टश्च । ततः, तस्य पृच्छतः, तेन सार्थभ्रंशसमुद्भव आत्मनो वृत्तान्तो निवेदितः । ततः, सिंहेन उक्तम् "भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारस्य उद्वहनेन कष्टं प्राप्नुहि । तत्, अत्र एव अरण्ये निर्विशङ्कः मरकतसदृशानि शष्पाग्राणि भक्षयन्, मया सह सदैव वस ।" सोऽपि तथा इति उक्त्वा, तेषां मध्ये विचरन् न कुतोऽपि भयम् इति सुखेन आस्ते ।

 ३. अन्येद्युः, मदोत्कटस्य अरण्यचारिणा महागजेन सह युद्धम् अभवत् । ततः तस्य दन्तमुशलयोः प्रहारेण व्यथा सञ्जाता । व्यथितः कथमपि प्राणैः न वियुक्तः । अथ, शरीरस्य असमर्थ