पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/34

पुटमेतत् सुपुष्टितम्
( ३३ )
नीति कथा माला ॥

त्वात् न कुत्रचित् पदात् पदम् अपि चलितुं शक्नोति । ते अपि सर्वे काकादयः अप्रभुत्वेन क्षुधाऽऽविष्टाः परं दुःखं भेजुः । अथ, तान् सिंह, आह, "भोः ! अन्विष्यतां कुत्रचित् किञ्चित् सत्त्वम् । येन अहम् एताम् अपि दशां प्राप्तः, तत् हत्वा युष्माकं भोजनं सम्पादयामि ।"

 ४. अथ, ते चत्वारोऽपि भ्रमितुम् आरब्धाः । यावत् न किञ्चित् सत्त्वं पश्यन्ति, तावत् वायसशृगालौ परस्परं मन्त्रयतः । शृगाल आह, "भो वायस ! किम् प्रभूतेन भ्रान्तेन ? अयम् अस्माकं प्रभोः विश्वस्तः क्रथनकः तिष्ठति । तत्, एनं हत्वा प्राणयात्रां कुर्मः ।" वायस आह "युक्तम् उक्तं भवता; परं, स्वामिना एतस्य अभयप्रदानं दत्तम् आस्ते । न वध्यः अयम् ।" शृगाल आह, "भो वायस ! अहं स्वामिनं विज्ञाप्य तथा करिष्ये, यथा स्वामी वधं करिष्यति । तत्, तिष्ठन्तु भवन्तः अत्रैव, यावत् अहं गृहं गत्वा, प्रभोः आज्ञां गृहीत्वा च आगच्छामि ।" एवम् अभिधाय सत्वरं सिंहम् उद्दिश्य प्रस्थितः ।

 ५. अथ, सिंहम् आसाद्य इदम् आह, “स्वामिन् ! समस्तं वनं भ्रान्त्वा वयम् आगताः, न किञ्चित् सत्त्वम् आसादितम् । तत्, किं कुर्मः वयम् । सम्प्रति, वयं बुभुक्षया पदम् एकम् अपि प्रचलितुं न शक्नुमः । देवोऽपि पथ्याशी वर्तते । यदि देवस्य आदेशः भवति, तत् क्रथनकस्य पिशितेन अद्य पथ्यक्रिया क्रियते ।"

 ६. अथ सिंहः, तत् दारुणं वचनम् आकर्ण्य सकोपम् इदम् आह, “धिक् पापाधम ! यदि एवं भूयः वदसि, तत्, त्वां तत्