पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/35

पुटमेतत् सुपुष्टितम्
( ३४ )
काकादीनां क्रथनकस्य च ॥

क्षणात् एव वधिष्यामि । मया तस्य अभयं प्रदत्तम्, तत् कथं व्यापादयामि ।"

 ७. तत् श्रुत्वा शृगालः प्राह "स्वामिन् ! यदि अभयप्रदानं दत्त्वा वधः क्रियते, तदा एष दोषो भवति, यदि तु स जीवितव्यं प्रयच्छति, तत् न दोषः । ततः, यदि पुनः देवपादानां भक्त्त्या स आत्मानं वधाय नियोजयति, तत् वध्यः; अन्यथा अस्माकं मध्यात् एकतमः वध्यः, यतः देवपादाः पथ्याशिनः, क्षुधाया निरोधात् अन्त्यां दशां यास्यन्ति । अपरं, पश्चात् अपि अस्माभिः वह्नौ प्रवेशः कार्यः, यदि स्वामिपादानां किंचित् अनिष्टं भविष्यति । उक्तञ्च,

'यस्मिन् कुले यः पुरुषः प्रधानः,
स सर्वयत्नैः परिरक्षणीयः ।' "

तत् श्रुत्वा मदोत्कटः प्राह, "यदि एवं, तत् कुरुष्व यत् रोचते ।"

 ८. तत् श्रुत्वा स सत्वरं गत्वा तान् आह, "भोः ! स्वामिनः महती अवस्था वर्तते तत् किं पर्यटितेन ! तेन विना कः अत्र अस्मान् रक्षयिष्यति ? तत् गत्वा तस्य क्षुद्रोगात् परलोकं प्रस्थितस्य आत्मशरीराणां दानं कुर्मः, येन स्वामिनः प्रसादस्य अनृणतां गच्छामः ।" तदनन्तरं ते सर्वे बाष्पपूरितदृशः मदोत्कटं प्रणम्य उपविष्टाः । तान् दृष्ट्वा मदोत्कट आह, “भोः ! प्राप्तं, दृष्टं वा किञ्चित् सत्त्वम् ?"