पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/36

पुटमेतत् सुपुष्टितम्
( ३५ )
नीति कथा माला ॥

 ९. अथ, तेषां मध्यात् काकः प्रोवाच, "स्वामिन् ! वयं तावत् सर्वत्र पर्यटिताः । परं, न किञ्चित् सत्त्वम् आसादितं दृष्टं वा । तत्, अद्य मां भक्षयित्वा प्राणान् धारयतु स्वामी, येन देवस्य आश्वासनं भवति, मम पुनः स्वर्गप्राप्तिः,

‘स्वाम्यर्थं यस्त्त्यजेत् प्राणान् भृत्यो भक्तिसमन्वितः ।
परं स पदमाप्नोति, जरामरणवर्जितम् ॥"

 १०. तत् श्रुत्वा शृगाल आह “भोः ! स्वल्पकायः भवान् । तव भक्षणात् स्वामिनः तावत् प्राणयात्रा न भवति, अपरः दोषश्च समुत्पद्यते । उक्तं हि,

‘काकमांसं, शुनोच्छिष्टं, स्वल्पं, तदपि दुर्लभम्,
भक्षितेनापि किं तेन ? तृप्तिर्येन न जायते ॥

 तत् दर्शिता स्वामिभक्तिः भवता, गतञ्च आनृण्यं भर्तृपिण्डस्य, प्राप्तश्च, उभयलोके साधुवादः । तत्, अपसर अग्रतः । अहं स्वामिनं विज्ञापयामि ।" तथा अनुष्ठिते शृगालः प्रणम्य उपविष्टः, "स्वामिन् ! मां भक्षयित्वा अद्य प्राणयात्रां विधाय, मम उभयलोकप्राप्तिं कुरु ।"

 ११. अथ, तत् श्रुत्वा द्वीपी आह, "भोः साधु उक्तं भवता; पुनः भवान् अपि स्वल्पकायः, स्वजातिश्च । नखायुधत्वात् अभक्ष्य एव । तत्, दर्शितं त्वया आत्मनः कौलीन्यम् । तत्, अपसर अग्रतः, येन अहं स्वामिनं विज्ञापयामि ।" तथा अनुष्ठिते द्वीपी प्रणम्य मदोत्कटम् आह, "स्वामिन् ! क्रियताम् अद्य मम