पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/37

पुटमेतत् सुपुष्टितम्
( ३६ )
काकादीनां क्रथनकस्यच ॥

प्राणैः प्राणयात्रा । दीयताम् अक्षयः वासः स्वर्गे । मम विस्तार्यतां क्षितितले प्रभूततरं यशः । तत्, अत्र विकल्पः न कार्यः ।"

 १२. तत् श्रुत्वा क्रथनकः चिन्तयामास, "एतैः तावत् समस्तैः अपि शोभनानि वाक्यानि प्रोक्तानि, न च एकोऽपि स्वामिना विनाशितः । तावत् अहम् अपि प्राप्तकालः विज्ञापयामि येन मम वचनम् एते त्रयोऽपि समर्थयन्ति ।" इति निश्चित्य प्रोवाच "भोः ! सत्यम् उक्तं भवता । परं, भवान् अपि नखायुधः, तत् कथं स्वामी भवन्तं भक्षयति । तत्, अपसर अग्रतः, येन अहं स्वामिनं विज्ञापयामि ।" तथा अनुष्ठिते क्रथनकः अग्रे स्थित्वा प्रणम्य उवाच, "स्वामिन् ! एते तावत् अभक्ष्या भवताम् । तत् मम प्राणैः प्राणयात्रा विधीयताम्, येन मम उभयलोकप्राप्तिः भवति ।"

 १३. एवम् अभिहिते, शृगालचित्रकाभ्यां विदारितोभयकुक्षिः क्रथनकः, प्राणान् अत्याक्षीत् ।

बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः
कुर्युः कृत्यमकृत्यं वा; उष्ट्रकाकादयो यथा ।

॥ इति ॥

---:o:---