पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१३६

पुटमेतत् सुपुष्टितम्
१२८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

नमस्ते सदा कुकुटेशाख्यक त्वं
समस्तापराधं विभो मे क्षमस्व ॥२०
य एको मुनीनां हृदब्जाधिवास:
शिवाङ्कं समारुह्य सत्पीठकल्पम् ।
विरिञ्चाय मन्त्रोपदेशं चकार
प्रमोदेन सोऽयं तनोतु श्रियं मे॥२१
यमाहुः परं वेद शूरेषु मुख्यं
सदा यस्य शक्त्या जगद्भीतभीतम् ।
यमालोक्य देवाः स्थिरं स्वर्गपालाः
सदोङ्काररूपं चिदानन्दमीडे॥२२
गुहस्तोत्रमेतत् कृतान्तारिसूनोः
भुजङ्गप्रयातेन पद्येन कान्तम् ।
जना ये पठन्ते सदा ते महान्तो
मनोवाञ्छितं सर्वकामान्लभन्ते॥२३

॥ इति सुब्रह्मण्यभुजङ्गप्रयातं सम्पूर्णम् ॥