पुटमेतत् सुपुष्टितम्
१४१
स्कन्दवेदपादस्तवः
क्षणाढ्यः । भीताय सह्यं गिरिजातनूजो हिरण्यवर्ण- स्त्वभयं कृणोतु ॥१५
यो दानवानीकभयङ्कराटवीसमूलनोत्पाटनचण्ड- वातः । षण्मातुरस्संहृतसर्वशत्रुरथैकराजो अभव- ज्जनानाम् ॥१६
अतीव बालः प्रवया: कुमारो वर्णी युवा षण्मुख- एकवक्त्रः । इत्थं महस्तद्बहुधाविरासीद्यदेकमव्यक्त- मनन्तरूपम् ॥१७
यदीयमायावरणाख्यशक्तितिरोहितान्तः करणा हि मूढाः । न जानते त्वां गुह तं प्रपद्ये परेण नाकं निहितं गुहायाम् ॥१८
गुरूपदेशाधिगतेन योगमार्गेण सम्प्राप्य च योगिनस्त्वाम् । गुहं परं ब्रह्म हृदम्बुजस्थं बिभ्राज- देतद्यतयो विशन्ति ॥१९
यो देवसेनापतिरादराद्वै ब्रह्मादिभिर्देवगणैभि- ष्टुतः । तं देवसेनान्यमहं प्रपद्ये विश्वं पुराणं तमसः परस्तात् ॥२०