पुटमेतत् सुपुष्टितम्
१४२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः
हृदम्बुजान्तर्दहराग्रवर्ति कृशानुमध्यस्थपरात्म - रूपात् । गुहात्सुसूक्ष्मान्मुनयः प्रतीयुरतः परं नान्य- दणीयस्रं हि ॥२१
तपःप्रसन्नेशबहुप्रदत्तवरप्रमत्तासुरभीतिभाजाम् । सुपर्वणां स्कन्द भवान् शरण्य इन्द्रस्य विष्णो वरु- णस्य राज्ञः॥२२
स एव देवो गिरिजाकुमारो राजा स मित्रं स हि नो वरेण्यः । भ्राता स बन्धुः स गुरुस्स्वप्ता च स एव पुत्रस्स पिता च माता॥२३
स्वाराज्यदात्रे स्वसुतां वितीर्य तां देवसेनां सुकु- मारगात्राम् । आराधयत्यन्वहमम्बिकेयमिन्द्रो हवि- ध्मान् सगणो मरुद्भिः॥२४
देवेन येनालघुविक्रमेण हतेषु सर्वेष्वपि दानवेषु । पुरेव देवाः स्वपदेधिचक्रुरिन्द्रश्च सम्राड्वरुणाश्चराजा॥
षाण्मातुरोऽसौ जगतां शरण्यस्तेजोन्नमाप:पव-