पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१५२

पुटमेतत् सुपुष्टितम्
१४४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

 धेनूर्बह्वीः कामदोग्धीस्सुवत्साः कुण्डोध्र्नीर्गादेहि- नस्त्वं सहस्रम् । भक्कार्तिघ्नं देवदेवं षडास्यं विद्माहि स्त्वा गोपतिं शूरगोनाम् ॥३२

 वन्दामहे बर्हिणवाहनस्थितं वनीपकाशेषमनीषित- प्रदम् । तोष्टूयमानं बहुधा पदे पदे सङ्क्रन्दनेनानिमिषेण जिष्णुना॥३३

 दिग्भ्यो दशभ्यः परितः पुन: पुन: परश्शताया- तसिषेविषावताम् । अनुप्रहायेव षडाननो ह्यस्रौ प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः॥३४

 कूर्मः फणीन्द्रश्च तथा फणाभृतो दिग्दन्तिनाश्चैव कुलाचला अपि । भूत्वाम्बिकेयः प्रथितप्रतापवान् ब्रह्माध्यतिष्ठद्भुवनानि धारयन् ॥३५

 यो वै स्कन्दः पृष्टश्शम्भोः सत्यं ज्ञानं ब्रह्मा- द्वैतम् । ओंकारार्थं प्राह स्मेत्थं सुब्रह्मण्यों सुन- मण्योम् ॥३६