पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१५९

पुटमेतत् सुपुष्टितम्
१५१
स्कन्दवेदपादस्तवः


मुखैरेतान्महारौद्रान् दूरीकुरु जगत्पते ।
मम स्वमभिकाङ्क्षन्ते ये स्तेना ये च तत्कराः ॥ ८५
गुह त्वत्पादभक्तानां गेहे जाग्रत्वहर्दिनम् ।
वीरबाहुमुखा वीरा नित्यानुचरास्तव ॥८६
त्रिषड्विलोचनेष्वेकदृक्कटाक्षेण लक्षयन् ।
आढ्यं करोतु मां स्कन्दः पर्जन्यो वृष्टिमानिव ॥८७
भयानकासुरानीककान्दिशीकाः पुरा खंलु ।
गुह त्वां शरणं प्रापुरिन्द्रेण सह देवताः ॥ ८८
स्वामेव कीर्तयन्देव ध्यायन् शृण्वन्प्रपूजयन् ।
गुह त्वत्पादभक्तोऽहं जीवानि शरदश्शतम् ॥ ८९
कृपादुग्धाब्धिकल्लोलायमानापाङ्गवीक्षण ।
देहि मे गुह बह्वायुः दीर्घायुत्वस्येहेशिषे ॥९०
पुरारातीक्षणपयःपरावारसुधाकर ।
षड्वक्त्र देहि कृपया मयि मेधां मयि प्रजाम् ॥ ९१
भक्तचातकबृन्देष्टवर्षि धाराधर प्रभों।
अस्मान् सञ्जीवय स्वामिन्नस्मिन् लोके शतं समाः॥९२