पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१६१

पुटमेतत् सुपुष्टितम्
१५३
स्कन्दवेदपादस्तवः


दूरेन्तिके वा यश्शत्रुरस्माननपराधिनः ।
शपत्येनं जहि स्कन्द यश्च नश्शपतश्शपात् ॥ १०१
चक्षुषा मनसा वचा मन्त्रेण हवनेन च ।
तत्कृत्यान्नशाय स्वामिन् भ्रातृव्यस्याभिदासतः ॥१०२
मच्छिद्रान्वेषिणश्शत्रोः धनमायुः प्रजाः पशून् ।
सर्वान्नाशय शूरघ्न मा वस्योच्छेषि किञ्चन ॥ १०३
अविद्वांसश्च विद्वांसः स्वप्ने जाग्रति वा गुह ।
तेभ्यो मोचय मां यद्यदेनांसि चकृमा वयम् ॥१०४
वयमूचिम यद्देव जिह्वया देवहेलनम् ।
एनसो मोचयाग्नेय त्वं हि वेत्थ यथातथम् ॥१०५
वित्तार्थे वा तथान्यार्थे विप्रार्थे गोर्थ एव वा ।
पुनह्यस्मान् ततः स्कन्द यत्किश्चानृतमूदिम ॥१०६
तमागसं क्षमस्व त्वं स्वकीयाभीष्टलिप्सया ।
सम्प्रार्थ्य तुभ्यं वान्यस्मै यद्वाचानृतमूदिम ॥ १०७
सौन्दर्यवल्ल्या सहितमम्बया देवसेनया।
महासेनं भजेदेवं सत्येन तपसा सह ॥१०८