पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१६३

पुटमेतत् सुपुष्टितम्

॥ बृहत्स्तोत्ररत्नाकरः॥

॥ श्रीशिवाष्टोत्तरशतनामस्तोत्रम् ॥
शिवो महेश्वरश्शंभुः पिनाकी शशिशेखरः ।
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ १
शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टोंऽबिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२
भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवाप्रियः ।
उग्रः कपाली कामारिरन्धकासुरसूदनः ॥३
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः।
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४
कैलासवासी कवची कठोरस्त्रिपुरान्तकः।