पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१७१

पुटमेतत् सुपुष्टितम्
१६३
श्रीशिवसहस्रनामस्तोत्रम्

पवित्रं च महांश्चैव नियमो नियमाश्रितः।
सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः ॥३७
सहस्राक्षो विशालाक्षस्सोमो नक्षत्रसाधकः ।
चन्द्रस्सूर्यश्शनिः केतुर्ग्रहो ग्रहपतिर्वरः ॥३८
आदिरन्तो लयः कर्ता मृगबाणार्पणोऽनघः ।
महातपा घोरतपा अदीनो दीनसाधकः ॥ ३९
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः।
योगी योज्यो महाबीजो महारेता महाबलः ॥ ४०
सुवर्णरेतास्सर्वज्ञस्सुबीजो बीजवाहनः ।
दशबाहुस्स्वनिमिषो नीलकण्ठ उमापतिः॥४१
विश्वरूपस्वयंश्रेष्ठो बलवीरो बलो गणः ।
गणकर्ता गणपतिर्दिग्वासाः काम एव च ॥ ४२
मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः।
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ॥ ४३
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ।
सुवहस्तस्सुरूपश्च तेजस्तेजस्करो निधिः ॥४४