पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१७६

पुटमेतत् सुपुष्टितम्
१६८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

भगहारी निहन्ता च कालो ब्रह्मा पितामहः ।
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ॥७७
लिङ्गाध्यक्षस्सुराध्यक्षो योगाध्यक्षो रुगावहः ।
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ॥७८
इतिहासस्सकल्पश्च गौतमोऽथ निशाकरः ।
दन्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः॥७९
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ।
अक्षरं परमं ब्रह्म बलवान् शक्त एव च ॥८०
नीतिर्ह्यनीतिश्शुद्धामा शुद्धो मान्यो गतागतः ।
बहुप्रसादस्सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ॥८१
वेदकारो मन्त्रकारो विद्धान्समरमर्दनः।
महामेघनिवासी च महाघोरो वशीकरः ॥ ८२
अग्निज्वालो महाज्वालो ह्यतिधूम्रो हुतो हविः ।
वृषभश्शङ्करो नित्यं वर्चस्वी धूमकेतनः ॥ ८३
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः।
स्वस्तिदस्स्वस्तिभागश्च भागी भागकरो लघुः॥ ८४