पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१७८

पुटमेतत् सुपुष्टितम्
१७०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


अमोघार्थः प्रसादश्च अभिगम्यस्सुदर्शनः ।
उपकारः प्रियस्सर्वः कनकः काञ्चनच्छविः ॥ ९३
नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ।
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ॥९४
नक्तं कलिश्च कालश्च मकरः कालपूजितः।
सगणो गणकारश्च भूतवाहनसारथिः ॥ ९५
भस्माशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ।
लोकपालस्तथा लोको महात्मा सर्वपूजितः ॥ ९६
शुक्लस्त्रिशुक्लसम्पन्नश्शुचिर्भूतनिषेवितः ।
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ॥९७
विशालशाखस्ताम्रोष्ठोह्यम्बुजालस्सुनिश्चलः ।
कपिला कपिशश्शुक्ल आयुश्चैव परोऽपरः ॥९८
गन्धर्वो ह्यदितिस्तार्क्ष्यस्सुविज्ञेयस्सुशारदः ।
परश्वधायुधो देवो ह्यनुकारी सुबान्धवः ॥९९
तुम्बवीणो महाक्रोधो ऊर्ध्वरेता जलेशयः।
उग्रो वशङ्करो वंशो वंशनादो ह्यनिन्दितः ॥ १००