पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१८०

पुटमेतत् सुपुष्टितम्
१७२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

देवदेवस्सुखासक्तस्सदसत्सर्वरत्नवित् ।
कैलासगिरिवासी च हिमवद्भिरिसंश्रयः ॥१०९
कूलहारी कूलकर्ता बहुविद्यो बहुदः।
वणिजो वर्धकी वृक्षो वकुळश्चन्दनच्छदः ॥ ११०
सारग्रीचो महाजत्रुरलोलश्च महौषधः ।
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ॥ १११
सिंहनादस्सिंहदंष्ट्रस्सिंहगस्सिंहवाहनः ।
प्रभावात्मा जगत्कालः कालो लोकहितस्तरः॥११२
साराङ्गो नवचक्राङ्गः केतुमाली सभावनः ।
भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥११३
वर्धितस्सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघस्संयतो ह्यश्वो भोजन: प्राणधारणः ॥११४
धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।
गोपाली गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ११५
हिरण्यबाहुश्च तथा गुहापालः प्रवेशकः ।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ११६