पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१८२

पुटमेतत् सुपुष्टितम्
१७४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

आरोहणोऽधिरोहश्व शीलधारी महायशाः।
सेनाकल्पे महाकल्पे योगो योगकरो हरिः ॥ १२५
युगरूपो महारूपो महानागहनो वधः ।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥१२६
बहुमालो महामालश्शशी हरिसुलोचनः ।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ।। १२७
त्रिलोचनो विषण्णाङ्गो मणिविद्धौ जटाधरः ।
बिन्दुर्विसर्गस्सुमुखः शरस्सर्वायुधस्सहः ।। १२८
निवेदनस्सुखाजातः सुगन्धारो महाधनुः ।
गन्धपाली च भगवानुत्थानस्सर्वकर्मणाम् ॥ १२९
मन्थानो बहुळो वायुः सकलस्सर्वलोचनः ।
तलस्ताल करस्थाली ऊर्ध्वसंहननो महान् ॥ १३०
छत्रं सुछत्रो विख्यातो लोकस्सर्वाश्रयः क्रमः ।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥१३१
हर्यक्षः ककुभो वज्री शतजिह्वस्सहस्रपात् ।
सहस्रमूर्धा देवेन्द्रस्सर्वदेवमयो गुरुः ॥१३२