पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१८६

पुटमेतत् सुपुष्टितम्
१७८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

नित्ययुक्तश्शुचिर्भूतः प्राप्नोत्यात्मानमात्मना ।
एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥१५७
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्पराः ।
स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ॥ १५८
भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः।
तथैव च मनुष्येषु ये मनुष्या: प्रधानतः ॥ १५९
आस्तिकाश्श्रद्दधानाश्च बहुभिर्जन्मभिस्स्तवैः।
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ॥ १६०
कर्मणा मनसा वाचा भावेनामिततेजसः ।
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ॥१६१
उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः ।
शृण्वन्तश्श्रावयन्तश्च कथयन्तश्च ते भवम् ॥ १६२
स्तुवन्तस्स्तूयमानाश्च तुष्यन्ति च रमन्ति च ।
जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १६३
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ।
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ १६४