पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१९१

पुटमेतत् सुपुष्टितम्
१८३
वेदपादस्तवः

ननाम दूरतो दृष्ट्वा दण्डवत्क्षितिमण्डले ।
वपावुत्थाय देवस्य ताण्डवामृतमङ्गळम् ॥ ७
पार्श्वस्थितां महादेवीं पश्यन्तीं, तस्य ताण्डवम् ।
दृष्ट्वा सुसंहृष्टमनाः पपात पुरतो मुनिः ॥ ८
ततशिष्यास्समाहूय वेदशास्त्रार्थपारगान् ।
अनिकेशमकेशं च सतयोगं च माधवम् ।। ९
वक्रनासं समित्पाणिं धूमगन्धि कुशासनम् ।
एतैस्सार्थं महादेवं पूजयामास जैमिनिः ॥ १०
ततोऽपि वेदवेदान्तसारार्थं तत्प्रसादतः ।
कृताञ्जलिरुवाचेदं वेदान्तस्तवमुत्तमम् ॥ ११
श्रीजैमिनिस्वाच:-
विघ्नेशविधिमार्ताण्डचन्द्रेन्द्रोपेन्द्रवन्दित ।
नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ॥ १२
उमाकोमलहस्ताब्जसम्भावितललाटिकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ।। १३
शिवं विष्णोश्च दुर्दर्शं नरः कस्स्तोतुमर्हति ।