पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२०८

पुटमेतत् सुपुष्टितम्
२००
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

यद्यन्मनश्चिन्तयसि स्वमिष्टं
तत्तद्भविष्यत्यखिलं ध्रुवं ते ।
दुःखे निवृत्ते विषये कदाचि-
धक्ष्यामहे सौमनसाय रुद्रम् ॥ ११६
अज्ञानयोगादपचारकर्म
यत्पूर्वमस्माभिरनुष्ठितं ते।
तद्देव सौढ्वा सकलं दयाळो
पितेव पुत्रान् प्रति नो जुषस्व ॥ ११७
संसाराख्यक्रुद्धसर्पेण तीव्रैः
रागद्वेषोन्मादलोभादिदन्तैः ।
दष्टं दृष्टया मां दयाळुः पिनाकी
देवस्त्राता प्रायतामप्रयच्छन् ।
इत्युक्त्वान्ते यत्समाधेर्न मन्त्री
रुद्रं ध्यात्वा यान्ति जन्माहिदष्टाः ।
सन्तो नीलग्रीवमन्त्रात्मनाहं
तत्वायामि ब्रह्मणा वन्दमानः ॥