पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२१२

पुटमेतत् सुपुष्टितम्
२०४
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

शिवे कथं त्वं स्तुतिभिस्तु गीयसे
जगत्त्रयी केळिरयं शिवः पतिः ।
हरिस्तु दासोऽनुचरेन्दिरा शची
सरस्वती वा सुभगागदिर्वसु ॥ १३३
इमं स्तवं जैमिनिना समीरितं
द्विजोत्तमो यः पठतीशभक्तितः ।
तमिष्टवाक्विद्धिमतिश्रियः परं
परिष्वजन्ते जनयो यथामतिम् ।। १३४
महीपतिर्यस्तु युयुत्सुरादरा-
दिदं पठत्याशु तथैव सादरात् ।
प्रयान्ति वा शीघ्रमथान्तकं भियं
परं दधाना हृदयेषु शत्रवः ॥ १३५
लभन्ते पठन्तो मतिं बुद्धिकामा
लभन्ते चिरायुस्तथाऽऽयुष्यकामाः ।
लभन्ते तथैव श्रियं पुष्टिकामा
लभन्ते ह पुत्रान् लभन्ते ह पौत्रान् ॥१३६
इति श्रीजैमिनिमहर्षिणा प्रणीतो वेदपादस्तवस्सम्पूर्णः ॥