पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२३०

पुटमेतत् सुपुष्टितम्

शिव सर्वग शर्व शर्मदं
प्रणतो देव दयां कुरुष्व मे ।
नम ईश्वर नाथ दिक्पते
पुनरेवेश नमो नमोऽस्तु ते ॥ १४
शरणं तरुणेन्दुशेखरः
शरणं मे गिरिराजकन्यका।
शरणं पुनरेव तावुभौ
शरणं नान्यदुपैमि दैवतम् ॥ १५
उपमन्युकृतं स्तवोत्तमं
जपतः शम्भुसमीपवर्तिनः।
अभिवाञ्छितभाग्यसम्पदः
परमायु: प्रददाति शङ्करः॥ १६
उपमन्युकृतं स्तवोत्तमं
प्रजपेद्यस्तु शिवस्य सन्निधौ।
शिवलोकमवाप्य सोऽचिरा-
त्सह तेनैव शिवेन मोदते ॥ १७
इत्युपमन्युकृतं शिवस्तोत्रं सम्पूर्णम् ॥