पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२३७

पुटमेतत् सुपुष्टितम्

सदा भूतिभूषं भुजङ्गावनद्धं
पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४
यदा यातनादेहसन्देहवाही
भवेदात्मदेहे न मोहो महान्मे ।
तदाकाशशीतांशुसङ्काशमीश
स्मरारे वपुस्ते नमस्ते स्मराणि ।। २५
यदा पारमच्छायमस्थानमद्भि-
र्जनैर्वा विहीनं गमिष्यामि मार्गम् ।
तदा तं निरुन्धन्कृतान्तस्य मार्गं
महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६
यदा रौरवादि स्मरन्नेव भीत्या
व्रजाम्यत्र मोहं महादेव घोरम् ।
तदा मामहो नाथ तस्तारयिष्य-
त्यनाथं पराधीनमर्धेन्दुमौळे ॥
यदा श्वेतपत्रायतालङ्घ्य शक्तैः
कृतान्ताद्भयं भक्तवात्सल्यभावात् ।