पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२७०

पुटमेतत् सुपुष्टितम्

२६२ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

प्रस्तारानत्युदारान् पिपठि-
षुरिव यो नित्यमत्यादरेण ।
आधत्ते भङ्गितुङ्गैरनिश-
मवयवैरन्तरङ्गं स्रमोदं
सोमापीडस्य सोऽयं प्रदिश-
तु कुशलं पाणिरङ्गः कुरङ्गः ॥
कण्ठप्रान्तावसज्जत्कनक-
मयमहाघण्टिकाघोरघोषैः
कण्ठारावैरकुण्ठैरपि भरि-
तजगच्चक्रवाळान्तराळः।
चण्ड प्रोद्दण्डशृङ्गः ककुभ-
कबळितीत्तुङ्गकैलासशृङ्गः
कण्ठे कालस्य वाहः शमय-
तु दुरितं शाश्वतं शाक्वरेन्द्रः ॥ ६
निर्यद्दानाम्बुधारापरिमळ-
तरळीभूतलोलम्बपाली