पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२७१

पुटमेतत् सुपुष्टितम्

२६३ शिवपादादिकेशान्तस्तुतिः

झङ्कारैः शङ्कराद्रेः शिखर-
शतदरी: पूरयन् भूरिघोषैः।
शार्वस्सौवर्णशैलप्रतिम-
पृथुवपुस्सर्वविघ्नोपहर्ता
शर्वाण्याः पूर्वसूनुस्स भव-
तु भवतां स्वस्तिदो हस्तिवक्त्रः ॥ ७
यः पुण्यैर्देवतानां समज-
नि शिवयोश्श्र्लाघ्यवीरैकमत्या
यनाग्नि श्रूयमाणे दितिज-
भटघटा भीतिभारं भजन्ते ।
भूयात्सोऽयं विभूत्यै निशित-
शरशिखापाटितक्रौञ्चशैल-
स्संसारागाधकूपोदरप
वितसमुत्तारकस्तारकारिः॥ ८
आरूढ़प्रौढवेगप्रविजित-
पवनं तुङ्गतुङ्गं तुरङ्गं