पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२७५

पुटमेतत् सुपुष्टितम्

२६७

शिवपादादिकेशान्तस्तुतिः
वासोरत्नेन केनाप्यधिक
मृदुकेरणास्रतो विस्मृतश्री-
पीठ: पीडाधरं न: शमय-
तु शिवयोस्स्वैरसंवासयोग्यः ॥ १५
आसीनस्याधिपीठं त्रिजग-
दधिपतेरङ्घ्रिपीठानुषक्तौ
पाथोजाभोगभाजौ परिमृदु-
लतलोल्लासिपद्माभिलेखौ।
पातां पादावुभौ तौ नमद-
मरकिरीटोल्लसच्चारुहीर-
श्रेणीशोणायमानोन्नतन-
स्वदशकोद्भासमानौ समानौ ॥ १६
यन्नादो वेदवाचां निगदति
निखिलं लक्षणं पक्षिकेतु-
र्लक्ष्मीसम्भोगसौख्यं विरचय-
ति ययोश्चापदे रूपभेदे।