पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२८९

पुटमेतत् सुपुष्टितम्
२८१
शिवकेशादिपादान्तवर्णनस्तोत्रम्


ज्जाह्नव्याभं मृडानीक-
मितुरुडपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥२
क्रुध्यद्गौरीप्रसादानतिस-
मयपदाङ्गुष्ठसङ्क्रान्त लाक्षा-
बिन्दुस्पर्धिस्मरारेः स्फटिक-
मणिदृषन्मन्मग्नमाणिक्यशोभम् ।
मूर्धन्युद्यद्दिव्यसिन्धोः पतित-
शफरिकाकारि वोमास्तकंस्ता-
दस्तोकापंत्तिकृत्यै हुतवह
कणिका मोक्षरूक्षं सदाक्षि ॥३
भूत्यै दृग्भूतयोः स्याद्यदहिम-
हिमरुग्बिम्बयोः स्निग्धवर्णो
दैत्यौषध्वंसशंसीस्फुटइव
परिवेषावशेषो विभाति ।
सर्गस्थित्यन्तवृत्तिर्मयिसमु-
पगतेऽतीवनिर्वृत्तगर्वं