पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३११

पुटमेतत् सुपुष्टितम्
३०३
शिवानन्दलहरी


सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
निक्षिप्तं गरलं गलेन गिलितं नोद्गीर्णमेव त्वया ॥
ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
दुष्टः किं च करे धृतः करवले किं पक्कजम्बूफलम् ।
जिह्वायां निहितश्च सिद्धवुटिका वा कण्ठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शम्भो महात्मन्वद ॥
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा?॥
किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भव-
द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यदेवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
पश्यनिर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ।।
योगक्षेमधुरन्धरस्थ सकलश्रेय:प्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।