पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३१८

पुटमेतत् सुपुष्टितम्
३१०
बृहत्स्तोत्ररलाकरे - प्रथमभागः


चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो
गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥
रोधस्तोयहृतः श्रमेण पंथिकश्छायां तरोर्वृष्टितो
भीतः स्वस्थगृहं गृहस्थमतिथिर्दीन: प्रभु धार्मिकम् ।
दीपं सन्तमसाकुलश्च शिखिनं शीसावृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् ॥
अक्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥
आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्च्छादनं
वाचाशङ्खमुखे स्थितेश्च जठरापूर्तिं चरित्रामृतैः ।
रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना
पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥
मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्वायते
गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।