पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३२०

पुटमेतत् सुपुष्टितम्
३१२
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


चिरपदफलकाङ्क्षिसेव्यमानां
परमसदाक्षिवभावनां प्रपद्ये ॥ ६७
अमितमुदमृतं मुहुर्दुहन्तीं
विमलभवत्पग्योष्ठमावसन्तीम् ।
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम् ॥ ६८
जडता पशुता कलङ्किता कुटि-
लचरत्वं च नास्ति मयि देव ।
अस्ति यदि राजमौले भवदा-
भरणस्य नास्मि किं पात्रम् ? ६९
अरहसि रहसि स्वतन्त्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः ।
अगणितफलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरोऽस्ति ॥ ७०
आरुढभक्तिगुणकुञ्चितभावचाप-
युक्तैःशिवस्मरणबाणगणैरमोघैः ।