पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३२५

पुटमेतत् सुपुष्टितम्
३१७
शिवानन्दलहरी


अशनं गरलं फणी कलापो
वसनं चर्मं च वाहनं महोक्षः।
मम दास्यसि किं किमस्ति शम्भो
तव पादाम्बुजभक्तिमेव देहि ॥८७
यदा कृताम्भोनिधिसेतुबन्धनः
करस्थलाधःकृतपर्वताधिपः ।
भवानि ते लङ्घितपद्मसम्भव-
स्तदा शिवार्चास्तवभावनाक्षमः ॥ ८८
नतिभिर्नुतिमिस्त्वमीश पूजा-
विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोषि ॥ ८९
वचसा चरितं वदामि शम्भो-
रहमुद्योगविधासु तेऽप्रसक्तः ।
मनसाऽऽकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि ॥९०