पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३२७

पुटमेतत् सुपुष्टितम्
३१९
शिवानन्दलहरी


इति विचिकित्सां सन्त्यज
शिवकथमासीद्गिरौ तथा वेश्म॥ ९५
धैर्याङ्कुशेन निभृतं रभसादाकृष्य भक्तिशृङ्खलया ।
पुरहर चरणालाने हृदयमदेभं बधान चिन्त्रैिः ॥
प्रचरत्यभितः प्रगल्मवृत्त्या
मदवानेष मनः करी गरीयान् ।
परिगृह्य नयेन भक्तिरज्ज्वा
परमं स्थाणुपदं दृढं नयामुम् ॥९७
सर्वालङ्कारयुक्तां सरल-
पदयुतां साधुवृत्तां सुवर्णां
सद्भिः संस्तूयमानां सरस-
गुणयुतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
कल्याणीं देव गौरीप्रिय कविताकन्यकां त्वं गृहाण ॥
इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।

Bruha-11