पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३२८

पुटमेतत् सुपुष्टितम्
३२०
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
कथं शम्भो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥
स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः
स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः।
माहात्म्याप्रविचारणप्रकरणे धानातुषस्तोमव-
द्भूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः ॥

॥ इति श्रीशङ्करभगवत्पादकृतिषु शिवानन्दलहरी सम्पूर्णा ॥