पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३४३

पुटमेतत् सुपुष्टितम्
३३५
दक्षिणामूर्त्यष्टकम्


सुनिर्मलज्ञानसुखैकरूपं
प्रज्ञानहेतुं परमार्थदायिनम् ।
चिदम्बुधौ तं विहरतमाद्य-
मानन्दमूर्तिं गुरुराजमीडे॥ १५
यस्यान्तर्नादिमध्यं न हि
करचरणं नाम गोत्रं न सूत्रं
नो जातिर्नैव वर्णा न भवति
पुरुषो ना नपुंसं न च स्त्री।
नाकारं नैवकारं न हि जनि
मरणं नास्ति पुण्यं न पापं
तत्वं नो तत्त्वमेकं सहज-
समरसं सद्गुरुं तं नमामि ॥ १६
अलं विकल्पैरहमेव केवलं
मयि स्थितं विश्वमिदं चराचरम् ।
इदं रहस्यं मम येन दर्शितं
स वन्दनीयो गुरुरेव केवलम् ॥ १७

॥ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामूर्त्यष्टकं सम्पूर्णम् ॥