पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३५

पुटमेतत् सुपुष्टितम्
२७
गणपतिसहस्रनामस्तोत्रम्


फणामण्डलसाहस्रफणिराजकृतासनः।
दशसाहस्रफणभृत्फणिराजकृतासनः।
अष्टाशीतिसहस्रौघमहर्षिस्तोत्रयन्त्रितः।
महाकायो महात्मापि चण्डिलश्चेष्टदो रसः।
आधारोऽसौ विदमयो हिरम्बस्स्कन्दपूर्वजः।
लक्षाधीशप्रियाधारो लक्षाधारमलोमयः।
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशितः।
चतुराशीतिलक्षाणां जीवानां देहसंस्थितः।
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः।
कोतियज्ञप्रमथनः कोतियज्ञफलप्रदः।
शिवाभवाद्यष्टकोटिविनायकधुरन्धरः।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः।
अनन्तदेवतासेव्यः अनन्तशुभदायकः।
अनन्तनामानन्तश्रीरनन्तश्रीरनन्तानन्तसौख्यदः॥
॥ इति श्रीमहागणपतिसहस्रनामस्तोत्रं समाप्तम्॥