पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३६२

पुटमेतत् सुपुष्टितम्
३५४
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


भूतिविभूषितकार्य दुस्तरमायं विवर्जिवापायम् ।
प्रमथसमूहसहायं सायं प्रातनिरन्तरं वन्दे ॥ ८
यस्तु पदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम् ।
पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं


श्रीशङ्कराष्टकं सम्पूर्णम् ॥